|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.9. अध्यायः 009
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति सदृष्टान्तप्रदर्शनं दैवादपि पुरुषकारस्य प्राबल्यप्रतिपादनम्॥ 1 ॥

Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
पितामह महाप्राज्ञ सर्वसास्त्रविशारद।
दैवे पुरुषकारे च किंस्विच्छ्रेष्ठतरं भवेत्॥ 13-9-1(81589)
भीष्म उवाच। 13-9-2x(6767)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
वसिष्ठस्य च संवादं ब्रह्मणश्च युधिष्ठिर॥ 13-9-2(81590)
दैवमानुषयोः किंस्वित्कर्मणोः श्रेष्ठमित्युत।
पुरा वसिष्ठो भगवान्पितामहमपृच्छत॥ 13-9-3(81591)
ततः पद्मोद्भवो राजन्देवदेवः पितामहः।
उवाच मधुरं वाक्यमर्थवद्धेतुभूषितम्॥ 13-9-4(81592)
`बीजतो ह्यङ्कुरोत्पत्तिरङ्कुरात्पर्णसम्भवः।
पर्णान्नालाः प्रसूयन्ते नालात्स्कन्धः प्रवर्तते॥ 13-9-5(81593)
स्कन्धात्प्रवर्तते पुष्पं पुष्पात्संवर्धते फलम्।
फलान्निर्वर्तते बीजं बीजात्स्यात्सम्भवः पुनः'॥ 13-9-6(81594)
नाबीजं जायते किञ्चिन्न बीजेने विना फलम्।
बीजाद्बीजं प्रभवति नाबीजं विद्यते फलम्॥ 13-9-7(81595)
यादृशं वपते बीजं क्षेत्रमासाद्य वापकः।
सुकृते दुष्कृते वाऽपि तादृशं लभते फलम्॥ 13-9-8(81596)
यथा बीजं विना क्षेत्रमुप्तं भवति निष्फलम्।
तथा पुरुषकारेण विना दैवं न सिध्यति॥ 13-9-9(81597)
क्षेत्रं पुरुषकारस्तु दैवं बीजमुदाहृतम्।
क्षेत्रबीजसमायोगात्ततः सस्यं समृद्ध्यते॥ 13-9-10(81598)
कर्मणः फलनिर्वृत्तिं स्वयमश्नाति कारकः।
प्रत्यक्षं दृश्यते लोके कृतस्याप्यकृतस्य च॥ 13-9-11(81599)
शुभेन कर्मणा सौख्यं दुःखं पापेन कर्मणा।
कृतं सर्वत्र लभते नाकृतं भुज्यते क्वचित्॥ 13-9-12(81600)
कृती सर्वत्र लभते प्रतिष्ठां भाग्यवीक्षितः।
अकृती लभते भ्रष्टः क्षते क्षारावसेचनम्॥ 13-9-13(81601)
तपसा रूपसौभाग्यं रत्नानि विविधानि च।
प्राप्यते कर्मणा सर्वं न दैवादकृतात्मना॥ 13-9-14(81602)
तथा स्वर्गश्च भोगश्च निष्ठा या च मनीषिता।
सर्वं पुरुषकारेण कृतेनेहोपलभ्यते॥ 13-9-15(81603)
ज्योतींषि त्रिदशा नागा यक्षाश्चन्द्रार्कमारुताः।
सर्वे पुरुषकारेण मानुष्याद्देवतां गताः॥ 13-9-16(81604)
अर्थो वा मित्रवर्गो वा ऐश्वर्यं वा कुलान्वितम्।
श्रीश्चापि दुर्लभा भोक्तुं तथैवाकृतकर्मभिः॥ 13-9-17(81605)
शौचेन लभते विप्रः क्षत्रियो विक्रमेण तु।
वैश्यः पुरुषकारेण शूद्रः शुश्रूषया श्रियम्॥ 13-9-18(81606)
नादातारं भजन्त्यर्था न क्लीबं नापि निष्क्रियम्।
नाकर्मशीलं नाशूरं तथा नैवातपस्विनम्॥ 13-9-19(81607)
येन लोकास्त्रयः सृष्टा दैत्याः सर्वाश्च देवताः।
स एष भगवान्विष्णुः समुद्रे तप्यते तपः॥ 13-9-20(81608)
स्वं चेत्कर्मफलं न स्यात्सर्वमेवाफलं भवेत्।
लोको दैवं समालक्ष्य उदासीनो भवेद्यदि॥ 13-9-21(81609)
अकृत्वा मानुषं कर्म यो दैवमनुवर्तते।
वृथा श्राम्यति सम्प्राप्य पतिं क्लीबमिवाङ्गना॥ 13-9-22(81610)
न तथा मानुषे लोके फलमस्ति शुभाशुभे।
यथा त्रिदशलोके हि फलमल्पेन जायते॥ 13-9-23(81611)
कृतः पुरुषकारस्तु दैवमेवानुवर्तते।
न दैवमकृते किञ्चित्कस्यचिद्दातुमर्हति॥ 13-9-24(81612)
यथा स्थानान्यनित्यानि दृश्यन्ते दैवतेष्वपि।
कथं कर्म विना दैवं स्थास्यति स्थापयिष्यतः॥ 13-9-25(81613)
न दैवतानि लोकेऽस्मिन्व्यापारं यान्ति कस्यचित्।
व्यासङ्गं जनयन्त्युग्रमात्माभिभवशङ्कया॥ 13-9-26(81614)
ऋषीणां देवतानां च सदा भवति विग्रहः।
कस्य वाचा ह्यदैवं स्याद्यतो दैवं प्रवर्तते॥ 13-9-27(81615)
कथं तस्य समुत्पत्तिर्यतो दैवं प्रवर्तते।
एवं त्रिदशलोकेऽपि प्राप्यते परमं सुखम्॥ 13-9-28(81616)
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।
आत्मैव ह्यात्मनः साक्षी कृतस्याप्यकृतस्य च॥ 13-9-29(81617)
कृतं च विकृतं किञ्चित्सिद्ध्यते गुरुकर्मणा।
सुकृतं दुष्कृतं कर्म अकृतार्थं प्रपद्यते॥ 13-9-30(81618)
देवानां शरणं पुण्यं सर्वं पुण्यैरवाप्यते।
पुण्यहीनं नरं प्राप्य किं दैवं प्रकरिष्यति॥ 13-9-31(81619)
पुरा ययातिर्विभ्रष्टश्च्यावितः पतितः क्षितौ।
पुनरारोपितः स्वर्गं दौहित्रैः पुण्यकर्मभिः॥ 13-9-32(81620)
पुरूरवाश्च राजर्षिर्द्विजैरभिहितः पुरा।
ऐल इत्यभिविख्यातः स्वर्गं प्राप्तो महीपतिः॥ 13-9-33(81621)
अश्वमेधादिभिर्यज्ञैः सत्कृतः कोसलाधिपः।
महर्षिशापात्सौदासः पुरुषादत्वमागतः॥ 13-9-34(81622)
अश्वत्थामा च रामश्च मुनिपुत्रौ धनुर्धरौ।
न गच्छतः स्वर्गलोकं वेददृष्टेन कर्मणा॥ 13-9-35(81623)
वसुर्यज्ञशतैरिष्ट्वा द्वितीय इव वासवः।
मिथ्याभिधानेनैकेन रसातलतलं गतः॥ 13-9-36(81624)
बलिर्वैरोचनिर्बद्धो धर्मपाशेन दैवतैः।
विष्णोः पुरुषकारेण पातालसदनः कृपः॥ 13-9-37(81625)
शक्रस्याथ रथोपस्थे विष्ठितो जनमेजयः।
द्विजस्त्रीणां वधं कृत्वा किं दैवेन न वारितः॥ 13-9-38(81626)
अज्ञानाद्ब्राह्मणं हत्वा स्पृष्टो बालवधेन च।
वैशम्पायनविप्रर्षिः किं दैवेन न वारितः॥ 13-9-39(81627)
गोप्रदानेन मिथ्या च ब्राह्मणेभ्यो महामखे।
पुरा नृगश्च राजर्षिः कृकलासत्वमागतः॥ 13-9-40(81628)
धुन्धुमारश्च राजर्षिः सत्रेष्वेव जरां गतः।
प्रीतिदायं परित्यज्य सुष्वाप स गिरिव्रजे॥ 13-9-41(81629)
पाण्डवानां हृतं राज्यं धार्तराष्ट्रैर्महाबलैः।
पुनः प्रत्याहृतं चैव न दैवाद्भुजसंश्रयात्॥ 13-9-42(81630)
तपोनियमसंयुक्ता मुनयः संशितव्रताः।
किं ते दैवबलाच्छापमुत्सृजन्ते न कर्मणा॥ 13-9-43(81631)
पापमुत्सृजते लोके सर्वं प्राप्य सुदुर्लभम्।
लोभमोहसमापन्नं न दैवं त्रायते नरम्॥ 13-9-44(81632)
यथाऽऽग्निः पवनोद्भूतः सुसूक्ष्मोऽपि महान्भवेत्।
तथा कर्मसमायुक्तं दैवं साधु विवर्धते॥ 13-9-45(81633)
यथा तैलक्षयाद्दीपः प्रम्लानिमुपगच्छति।
तथा कर्मक्षयाद्दैवं प्रम्लानिमुपगच्छति॥ 13-9-46(81634)
विपुलमपि धनौघं प्राप्य भोगान्त्रियो वा
पुरुष इह न शक्तः कर्महीनो हि भोक्तुम्।
सुविहितमपि चार्थं दैवते रक्ष्यमाणं
पुरुष इह महात्मा प्राप्नुते नित्ययुक्तः॥ 13-9-47(81635)
व्ययगुमपि साधुं कर्मणा संश्रयन्ते
भवती मनुजलोकाद्दैवलोको विशिष्टः।
बहुतरसुसमृद्ध्या मानुषाणां गृहाणि
पितृवनभवनाभं दृश्यते चामराणाम्॥ 13-9-48(81636)
न च फलति विकर्मा जीवलोके न दैवं
व्यपनयति विमार्गं नास्ति दैवे प्रभुत्वम्।
गुरुमिव कृतमग्र्यं कर्म संयाति दैवं
नयति पुरुषकारः सञ्चितस्तत्रतत्र॥ 13-9-49(81637)
एतत्ते सर्वमाख्यातं मया वै मुनिसत्तम।
फलं पुरुषकारस्य सदा संदृश्य तत्त्वतः॥ 13-9-50(81638)
अभ्युत्थानेन दैवस्य समारब्धेन केनचित्।
विधिना कर्मणा चैव स्वर्गमार्गमवाप्नुयात्॥ ॥ 13-9-51(81639)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवमोऽध्यायः॥ 9 ॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-9-13 नाकृती लभतेऽभीष्टं क्षितिः क्षीरावसेचनमिति ध.पाठः॥ 7-9-16 चन्द्रार्कतारका इति ध.पाठः। 7-9-18 लभते श्रियमिति सर्वत्र सम्बन्धः॥ 7-9-24 अकृते कर्माभावे सति॥ 7-9-26 व्यापारं पुण्यरूपं यान्ति अनुमोदन्ते। उग्रं धर्मविघ्नकरम्। एवं सञ्जनयन्त्युग्रा आत्मनिर्भयशङ्कयेति ध.पाठः॥ 7-9-27 यद्यप्येवं कर्मपरत्वं देवर्षीणामस्ति तथापि अदैवं दैवाभावो न वक्तुं शक्य इत्यर्थः॥ 7-9-28 यतो यस्माद्दैवं प्रवर्तते तस्य कर्मणोऽपि दैवं विना कथमुत्पत्तिः स्यान्न कथमपि॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|